|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.152. अध्यायः 152
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति चातुर्वर्ण्यस्य श्रेयस्साधनोपायप्रतिपादकपराशरवचनानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`पराशर उवाच।
एवं स भिक्षुर्निर्वाणं प्राप्नुयाद्दग्धकिल्बिषः।
इहस्थो देहमुत्सृज्य नीडं शकुनिवद्यथा॥ 13-152-1(87271)
सत्पथालम्बनादेव शूद्रः प्राप्नोति सद्गतिम्।
ब्रह्मणः स्थानमचलं स्थानात्स्थानमवाप्नुयात्॥ 13-152-2(87272)
यथा खनन्खनित्रेण जाङ्गले वारि विन्दति।
अनिर्वेदात्ततः स्थानमीप्सितं प्रतिपद्यते॥ 13-152-3(87273)
सैषा गतिरनाद्यन्ता सर्वैरप्युपधारिता।
तस्माच्छूद्रैरनिर्वेदाच्छ्रद्दधानैस्तु नित्यदा।
वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः। 13-152-4(87274)
यत्करोति तदश्नाति शुभं वा यदि वाऽशुभम्।
नाकृतं भुज्यते कर्म न कृतं नश्यते फलम्॥ 13-152-5(87275)
तथा शुभसमाचारः शुभमेवाप्नुते फलम्।
तथाऽशुभसमाचारो ह्यशुभं समवाप्नुते।
शुभान्येव समादद्याद्य इच्छेद्भूतिमात्मनः॥ 13-152-6(87276)
भूतिश्च नान्यतः शक्त्या शूद्राणामिति निश्चयः।
क्रते यतीनां शुश्रूषामिति सन्तो व्यवस्थिताः॥ 13-152-7(87277)
तस्मादागमसम्पन्नो भवेत्सुनियतेन्द्रियः।
शक्यते ह्यागमादेव गतिं प्राप्तुमनामयाम्॥ 13-152-8(87278)
वरा चैषा गतिर्दृष्टा यामन्वेपन्ति साधवः।
यत्रामृतत्वं लभते त्यक्त्वा दुःखमनन्तरम्॥ 13-152-9(87279)
इमं हि धर्मिमास्थाय येऽपि स्युः पापयोनयः।
स्त्रियो वैश्याश्च शूद्राश्च प्राप्नुयुः परमां गतिम्।
किं पुनर्ब्राह्मणो विद्वान्क्षत्रियो वा बहुश्रुतः॥ 13-152-10(87280)
न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः।
ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत्॥ 13-152-11(87281)
उपलभ्य तु विज्ञानं ज्ञानं वाऽप्यनसूयकः।
तथैव वर्तेद्गुरुषु भूयांसं वा समाहितः॥ 13-152-12(87282)
अथावमन्येत गुरुं तथा तेषु प्रवर्तते।
व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत्॥ 13-152-13(87283)
गतिं चाप्यशुभां गच्छेन्निरयाय न संशयः।
प्रक्षीयते तस्य पुण्यं ज्ञानमस्य विरुध्यते॥ 13-152-14(87284)
अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः।
उत्सेकान्मोहमापद्य तत्वज्ञानमवाप्तवान्॥ 13-152-15(87285)
एवमेवि हि नोत्सेकः कर्तव्यो ज्ञानसम्भवः।
फलं ज्ञानस्य हि शमः प्रशामाय यतेत्सदा॥ 13-152-16(87286)
उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा।
शुश्रूषा प्रतिपत्तव्या नित्यमेवानसूयता॥ 13-152-17(87287)
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा।
इन्द्रियार्थांश्च मनसा मनो बुद्धौ समादधेत्॥ 13-152-18(87288)
धृत्याऽऽसीत ततो गत्वा शुद्धदेशं सुसंवृतम्।
लब्धासनं यथा दृष्टं विधिपूर्वं समाचरेत्॥ 13-152-19(87289)
ज्ञानयुक्तस्तथा देवं हृदिस्थमुपलक्षयेत्।
आदीप्यमानं वपुषा विधूममनलं यथा॥ 13-152-20(87290)
रश्मिमन्तमिवादित्यं वैद्युताग्निमिवाम्बरे।
संस्थितं हृदये पश्येदीशं शाश्वतमव्ययम्॥ 13-152-21(87291)
न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः।
युक्तस्तु पश्यते बुद्ध्या सन्निवेश्य मनो हृदि॥ 13-152-22(87292)
अथ त्वेवं न शक्नोति कर्तुं हृदयधारणम्।
यथासांख्यमुपासीत यथावद्योगमास्थितः॥ 13-152-23(87293)
पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाणि वै।
पञ्च भूतविशेषाश्च मनश्चैव तु षोडश॥ 13-152-24(87294)
तन्मात्राण्यपबि पञ्चैव मनोऽहङ्कार एव च।
अष्टमं चाप्यथाव्यक्तमेताः प्रकृतिसंज्ञिताः।
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश॥ 13-152-25(87295)
एवमेतदिहस्थेन विज्ञेयं तत्वबुद्धिना।
एवं वर्ष्म समुत्तीर्य तीर्णो भवति नान्यथा॥ 13-152-26(87296)
परिसंख्यानमेवैतन्मन्तव्यं ज्ञानबुद्धिना॥ 13-152-27(87297)
अहन्यहनि शान्तात्मा पावनाय हिताय च।
एवमेव प्रसंख्याय तत्वबुद्धिर्विमुच्यते।
निष्पलं केवलं भवति शुद्धतत्वार्थतत्ववित्॥ 13-152-28(87298)
भिक्षुकाश्रममास्थाय शुश्रूषानिरतो बुधः।
शूद्रो निर्मुच्यते सत्वसंसर्गादेव नान्यथा॥ 13-152-29(87299)
सत्संनिक्रषे परिवर्तितव्यं
विद्याधिकाश्चापि निषेवितव्याः।
सवर्णतां गच्छति सन्निकर्षा-
न्नीलः खगो मेरुमिवाश्रयन्वै॥ 13-152-30(87300)
भीष्म उवाच। 13-152-31x(7306)
इत्येवमाख्याय महामुनिस्तदा
चतुर्षु वर्णेषु विधानमर्थवित्।
शुश्रूषया वृत्तगतिं समाधिना
समाधियुक्तः प्रययौ स्वमाश्रमम्॥' ॥ 13-152-31(87301)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः॥ 152 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|